हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Durga Devi Shodashopachara Puja – श्री दुर्गा षोडशोपचार पूजा
पूर्वाङ्गं पश्यतु ॥

श्री महागणपति पूजा (हरिद्रा गणपति पूजा) पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री जगदम्बा प्रसादेन सर्वापन्निवृत्यर्थं मनोवाञ्छाफल सिद्ध्यर्थं, मम समस्त व्याधिनाशनद्वारा क्षिप्रमेवारोग्यप्राप्त्यर्थं, ग्रहपीडानिवारणार्थं, पिशाचोपद्रवादि सर्वारिष्ट निवारणार्थं क्षेमायुः सकलैश्वर्य सिद्ध्यर्थं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्री दुर्गा परादेवी प्रीत्यर्थं, सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्राकारेण श्रीसूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

अस्मिन् बिम्बे साङ्गां सायुधां सवाहनां सशक्तिं पतिपुत्रपरिवार समेतं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेवी आवाहिता भव स्थापिता भव । सुप्रसन्नो भव वरदा भव । स्थिरासनं कुरु प्रसीद प्रसीद ॥

स्वामिनि श्रीजगन्माता यावत्पूजावसानकम् ।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

ध्यानम् –
खड्गं चक्रगदेषु चापपरिघान् शूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत् स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥

अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
-पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥

सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्र धनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गद हार कङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः ध्यायामि ।

आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥
आगच्छ वरदे देवि दैत्यदर्पविनाशिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥
ओं श्रीदुर्गापरादेव्यै नमः आवाहयामि ।

आसनम् –
तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अनेकरत्नसम्युक्तं नानामणिगणान्वितम् ।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः नवरत्नखचित सुवर्णसिंहासनं समर्पयामि ।

पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वी जु॑षताम् ॥
गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् ।
पाद्यार्थं ते प्रदास्यामि गृहाण परमेश्वरि ॥
ओं श्रीदुर्गापरादेव्यै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
गन्ध पुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
ओं श्रीदुर्गापरादेव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां यश॑सा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् ।
तोयमाचमनीयार्थं गृहाण परमेश्वरि ॥
ओं श्रीदुर्गापरादेव्यै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥
ओं श्रीदुर्गापरादेव्यै नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –
पयो दधि घृतं चैव शर्करा मधु सम्युतम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑ जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒ यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
शुद्धं यत्सलिलं दिव्यं गङ्गाजलसमं स्मृतम् ।
समर्पितं मया भक्त्या स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।

वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मि॒न् की॒र्तिमृद्धिं॑ द॒दातु॑ मे ॥
अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघा॑: पू॒यमा॑नः ।
अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥
पट्टयुग्मं मया दत्तं कञ्चुकेन समन्वितम् ।
परिधेहि कृपां कृत्वा मातर्दुर्गार्तिनाशिनी ॥
ओं श्रीदुर्गापरादेव्यै नमः वस्त्रयुग्मं समर्पयामि ।

सौभाग्यसूत्रम् –
क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठाम॒ल॒क्ष्मीर्ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च॒ स॒र्वा॒न् निर्णु॑द मे॒ गृहात् ॥
सौभाग्यसूत्रं वरदे सुवर्णमणिसम्युतम् ।
कण्ठेऽर्पयामि देवेशि सौभाग्यं देहि मे सदा ॥ [बध्नामि]
ओं श्रीदुर्गापरादेव्यै नमः सौभाग्यसूत्रं समर्पयामि ।

गन्धादि परिमलद्रव्याणि –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

गन्धम् –
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः चन्दनं समर्पयामि ।

हरिद्राचूर्णम् –
हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनि ।
तस्मात्त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥
ओं श्रीदुर्गापरादेव्यै नमः हरिद्राचूर्णं समर्पयामि ।

कुङ्कुमम् –
कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिता देवी कुङ्कुमं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः कुङ्कुमं समर्पयामि ।

सिन्दूरम् –
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् ।
अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ॥
ओं श्रीदुर्गापरादेव्यै नमः सिन्दूरं समर्पयामि ।

कज्जलम् –
चक्षुभ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् ।
कर्पूरज्योतिमुत्पन्नं गृहाण परमेश्वरि ॥
ओं श्रीदुर्गापरादेव्यै नमः कज्जलं समर्पयामि ।

आभरणम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नाग्ं रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
हार कङ्कण केयूर मेखला कुण्डलादिभिः ।
रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः आभरणानि समर्पयामि ।

पुष्पमाला –
क॒र्दमे॑न प्र॑जाभू॒ता म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः ।
मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः पुष्पमालां समर्पयामि ।

अथाङ्ग पूजा –
ओं दुर्गायै नमः – पादौ पूजयामि ।
ओं गिरिजायै नमः – गुल्फौ पूजयामि ।
ओं अपर्णायै नमः – जानूनी पूजयामि ।
ओं हरप्रियायै नमः – ऊरू पूजयामि ।
ओं पार्वत्यै नमः – कटिं पूजयामि ।
ओं आर्यायै नमः – नाभिं पूजयामि ।
ओं जगन्मात्रे नमः – उदरं पूजयामि ।
ओं मङ्गलायै नमः – कुक्षिं पूजयामि ।
ओं शिवायै नमः – हृदयं पूजयामि ।
ओं महेश्वर्यै नमः – कण्ठं पूजयामि ।
ओं विश्ववन्द्यायै नमः – स्कन्धौ पूजयामि ।
ओं काल्यै नमः – बाहू पूजयामि ।
ओं आद्यायै नमः – हस्तौ पूजयामि ।
ओं वरदायै नमः – मुखं पूजयामि ।
ओं सुवाण्यै नमः – नासिकां पूजयामि ।
ओं कमलाक्ष्यै नमः – नेत्रे पूजयामि ।
ओं अम्बिकायै नमः – शिरः पूजयामि ।
ओं परादेव्यै नमः – सर्वाण्यङ्गानि पूजयामि ।

अष्टोत्तरशतनामावली –

श्री दुर्गा अष्टोत्तरशतनामावली पश्यतु ॥

ओं श्रीदुर्गापरादेव्यै नमः अष्टोत्तरशतनाम पूजां समर्पयामि ।

धूपम् –
आप॑: सृ॒जन्तु॑ स्निग्धा॒नि चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः धूपं आघ्रापयामि ।

दीपम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥
साज्यं त्रिवर्तिसम्युक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥
ओं श्रीदुर्गापरादेव्यै नमः दीपं दर्शयामि ।
धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं सु॒वर्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारार्थं भक्ष्यभोज्यं नैवेद्यं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ऋतुफलम् –
इदं फलं मया देवि स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ओं श्रीदुर्गापरादेव्यै नमः ऋतुफलं समर्पयामि ।

ताम्बूलम् –
तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलालवङ्गसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः ताम्बूलं समर्पयामि ।

दक्षिणा –
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदं अतः शान्तिं प्रयच्छ मे ॥
ओं श्रीदुर्गापरादेव्यै नमः दक्षिणां समर्पयामि ।

नीराजनम् –
स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सग्ं सृ॒जामसि ॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मां वरदा भव ॥
ओं श्रीदुर्गापरादेव्यै नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –
ओं का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥
श्रद्धया सिक्तया भक्त्या ह्यार्द्रप्रेम्णा समर्पितः ।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिण –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरि ।
ओं श्रीदुर्गापरादेव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥
ओं श्रीदुर्गापरादेव्यै नमः साष्टाङ्गनमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्रीदुर्गापरादेव्यै नमः छत्रं आच्छादयामि ।
ओं श्रीदुर्गापरादेव्यै नमः चामरैर्वीजयामि ।
ओं श्रीदुर्गापरादेव्यै नमः नृत्यं दर्शयामि ।
ओं श्रीदुर्गापरादेव्यै नमः गीतं श्रावयामि ।
ओं श्रीदुर्गापरादेव्यै नमः आन्दोलिकान्नारोहयामि ।
ओं श्रीदुर्गापरादेव्यै नमः अश्वानारोहयामि ।
ओं श्रीदुर्गापरादेव्यै नमः गजानारोहयामि ।
यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूपार्हभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥
ओं श्रीदुर्गापरादेव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।

प्रार्थना –
[ श्री दुर्गा सप्तश्लोकीपश्यतु ॥ ]

या देवी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डशमनी या रक्तबीजाशिनी ।
या शुम्भादिनिशुम्भदैत्यदमनी या सिद्धलक्ष्मी परा
सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥

क्षमा प्रार्थना –
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥

अनया श्रीसूक्त विधानेन ध्यानावाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीदुर्गापरादेवी पादोदकं पावनं शुभम् ॥

श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


Sri Durga Stotras – श्री दुर्गा स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.